Achyutashtakam

अच्युतं केशवं राम नारायणं कृष्ण दामोदरं वासुदेवं हरिम् |
श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे || १ ||

अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम् |
इन्दिरा मन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दनं संदधे || २ ||
विष्णवे जिष्णवे शङ्खिने चक्रिणे रुक्मिनी रागिने जानकी जानये |
वल्लवी वल्लभायाऽर्चितायात्मने कंस विध्वंसिने वंशिने ते नमः || ३ ||

कृष्ण गोविन्द हे राम नारायण श्रिपते वासुदेवाचित श्रिनिधे |
अच्युतानन्त हे माधवाधोक्षज द्वारका नायक द्रौपदी रक्षक || ४ ||

राक्षसक्षोभितः सीतयाशोभितो दण्डकारण्य भू पुण्यता कारणः |
लक्ष्मणेनान्वितो वानरैः सेवितोऽगस्त्संपूजितो राघवः पातु माम् || ५ ||

धेनुकारिष्टकोऽनिष्टकृद् द्वेषिणां केशिहा कंसहृद् वंशिकावादकः |
पूतनाकोपकः सूरजा खेलनो बाल गोपालकः पातु माम् सर्वदा || ६ ||

विद्युदुद्धयोतवान प्रस्फुरद्वाससं प्रावृडम्भोदवत् प्रोल्लसद्विग्रहम् |
वन्यया मालया शोभितोरस्थलं लोहितांघ्रिदूयं वारिजाक्षं भजे || ७ ||

कुञ्चितैः कुन्तलैर्भ्राजिमानाननं रत्नमौलिं लसत् कुण्डलं गण्डयोः |
हारकेयूरकं कङ्कण प्रोज्ज्वलं किङ्किणी मञ्जुलं श्यामलं तं भजे || ८ ||